एतदालोक्य लोलाक्षि रूपमप्रतिमं तव।
कल्पयामः कलातत्त्वगुरुतामादिवेधसः॥ ३१९॥
पदार्थानामविद्यमानता अभावः, यथा—(सेब. ४.२०)
सग्गं अपारिजाअं कोत्थुहलच्छिरहिअं महुमहस्स उरं।
सुमरामि महणपुरओ अमुद्धअंदं च हरजडापब्भारं॥ ३२०॥
(स्वर्गमपारिजातं कौस्तुभलक्ष्मीरहितं मधुमथनस्योरः।
स्मरामि मथनपुरतोऽमुग्धचन्द्रं च हरजटाप्राग्भारम्॥)
धृतिरस्तमिता रतिश्च्युता गलितं गेयमृतुर्निरुत्सवः।