स बाल आसीद् वपुषा चतुर्भुजो मुखेन पूर्णेन्दुनिभस्त्रिलोचनः।
युवा कराक्रान्तमहीभृदुच्चकैरसंशयं सम्प्रति तेजसा रविः॥ ३१३॥
वर्तमानार्थविषयो यथा—(विसा. १.२३)
पर्वग्रन्थिषु वीरुधां सुमनसो मध्येऽङ्कुरं पल्लवा वाञ्छामात्रपरिग्रहः पिकवधूकण्ठो/?/दरे पञ्चमः।
किं च त्रीणि जगन्ति जिष्णुदिवसैर्द्वित्रैर्मनोजन्मनो देवस्यापि चिरोज्झितं यदि भवेदभ्यासवश्यं धनुः॥ ३१४॥
मौलौ धारय पुण्डरीकममितं तन्वात्मनो विक्रमं चक्राङ्क वह पादयुग्ममवनीं दोष्णा समभ्युद्धर।
लक्ष्मीं भ्रूनिकटे निवेशय भव ज्यायान् दिवौकस्पते— र्विश्वान्तःकरणैकचोर ! तदपि ज्ञातं हरिः खल्वसि॥ ३१५॥
भविष्यदर्थविषयो यथा—(मभा. २.३.१३)
वाताय कपिला विद्युदातपायातिलोहिनी।