मुरजाक्षरवाद्यैस्तु हन्याद्दण्डं तु दण्डकैः॥ ३२५॥
एवं नृत्तक्रमेणान्यो ह्यपसारस्समाप्यते।
अपसारत्रयं चान्यत् कल्प्यते साम्प्रतं मया॥ ३२६॥
तत्रापि पूर्ववन्नृत्तं कामतस्तु लयक्रमः।
कथितो रासकप्रान्ते शुभार्थो वचनक्रमः॥ ३२७॥
लब्ध्वा दुग्धमहोदधौ सुरगणैः पीत्वाऽमृतं यस्तदा पिण्डीशृङ्खलिकाविशेषविहितो युक्तो लताभेद्यकैः।
चित्रातोद्यपदक्रमैर्लययुतो भेदद्वयालङ्कृत— श्चारीखण्डसुमण्डलैरनुगतः सोऽयं मतो रासकः॥ ३२८॥
कन्यापहारसङ्गरसमागमाभ्युदयभूषितं यस्याम्।