कार्याकार्यनिरूपणरूपमिह निदर्शनं तदपि॥ ३३४॥
यत्र द्वयोर्विवादः प्रधानमधिकृत्य जायते सदसि।
सार्धप्राकृतरचिता प्रवह्लिका चेटकप्रभृति॥ ३३५॥
क्षुद्रकथा मन्थुल्ली येह महाराष्ट्रभाषया भवति।
गोरोचनेव कार्या सानङ्गवतीव वा कविभिः॥ ३३६॥
यस्यामुपहासः स्यात् पुरोहितामात्यतापसादीनाम्।
प्रारब्धानिर्वाहे सापि हि मन्थुल्लिका भवति॥ ३३७॥
मणिकुल्यायां जलमिव न लक्ष्यते यत्र पूर्वतो वस्तु।
पश्चात् प्रकाशते सा मणिकुल्या मत्स्यहसितादि॥ ३३८॥
याऽनियमितगतिभाषा दिव्यादिव्योभयेतिवृत्तवती।