सा दमयन्ती—वासवदत्तादिरिहोच्यते चम्पूः॥ ३४४॥
यस्मिन्नितिहासार्थाश्छन्दोभिस्संस्कृतेन बध्यन्ते।
बहवः स पर्वबन्धो भवति महाभारतप्रभृतिः॥ ३४५॥
यत्रेतिहासमखिलं यथास्थितं चैकमेव भाषन्ते।
ऋषयस्य काण्डबन्धो रामायणसन्निभो भवति॥ ३४६॥
यस्मिन्नितिहासार्थान् अपेशलान् पेशलान् कविः कुरुते।
स हयग्रीववधादिप्रबन्ध इव सर्गबन्धः स्यात्॥ ३४७॥
यः सर्गबन्धतुल्यो निबध्यते प्राकृतेन शुद्धेन।
आश्वासकबन्धोऽसौ विज्ञेयः सेतुबन्धादिः॥ ३४८॥
योऽपभ्रंशनिबन्धो मात्राच्छन्दोभिरभिमतोऽल्पधियाम्।