नायकचरितं ब्रूते नायक एवास्य वानुचरः॥ ३२१॥
वक्त्रापरवक्त्रवती सोच्छ्वासा संस्कृतेन गद्येन।
साऽऽख्यायिकेति कथिता माधविका—हर्षचरितादि॥ ३३०॥
नल—सावित्री—षोडशराजोपाख्यानवत् प्रबन्धान्तः।
अन्यप्रबोधनार्थं यदुपाख्याति तदुपाख्यानम्॥ ३३१॥
आख्यानकसंज्ञां तल्लभते यद्यभिनयन् पठन् गायन्।
ग्रन्थिक एकः कथयति गोविन्दवदवहिते सदसि॥ ३३२॥
निश्चीयते तिरश्चामतिरश्चां वा यत्र चेष्टाभिः।
कार्यमकार्यं वा तन्निदर्शनं पञ्चतन्त्रादि॥ ३३३॥
धूर्तविट—कुट्टनीमतमयूरमार्जारिकादि यल्लोके।