आन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पल— व्यक्तोत्तंसभृतः पिनह्य सहसा हृत्पुण्डरीकस्त्रजः।
एताः शोणितपङ्ककुङ्कुमजुषः संभूय कान्तैः पिब— न्त्यस्थिस्नेहसुराः कपालचषकैः प्रीताः पिशाचाङ्गनाः॥ २९०॥
२४. एतेन द्वितीयतृतीययोरपि गुणत्वं व्याख्यातम्।
मुखमापाण्डुगण्डं ते मदक्लिन्नकटः करी।
विशांपते! विशिष्टोऽपि सफलं ब्रह्मवर्चसम्॥ २९१॥
वर्षिष्ठाय यविष्ठाय प्रवीर्याय प्रचेतसे।
नमः कपर्दिने नीललोहितायाग्निरेतसे॥ २९२॥