२२. तृतीयस्य गुणत्वं, यथा—
कोऽभिप्रेतः सुसंस्थानस्तस्या इति न निश्चयः।
आशापिशाचिकैषा तु कुमारी मां वरिष्यति॥ २८४॥
२३. घृणावद् घृणावदर्थान्तरं घृणावत्स्मृतिहेतुश्च घृणावदर्थम्।
निष्ठ्यूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम्।
अतिसुन्दरमन्यत्र ग्राम्यकक्ष्यां विगाहते॥ २८५॥
पद्मान्यर्काशुनिष्ठ्यूताः पीत्वा पावकविप्रुषः।
भूयो वमन्तीव मुखैरुद्गीर्णारुणरेणुभिः॥ २८६॥