तत्रासभ्यमसभ्यार्थान्तरमसभ्यस्मृतिहेतुश्चाश्लीलम्। तत्र—
१७. आद्यस्य तु गुणत्वं, यथा—
तस्मै हिमाद्रेः प्रयतां तनूजां यतात्मने रोचयितुं यतस्व।
योषित्सु तद्वीर्यनिषेकभूमिः सैव क्षमेत्यात्मभुवोपदिष्टम्॥
१८. द्वितीयस्य गुणत्वं, यथा—
'सुदुस्त्यजा यद्यपि जन्मभूमिः'॥ २७७॥,
'जनैरसम्बाधमयांबभूवे ॥ २७८॥'
'स तेऽनुनेयः सुभगोऽभिमानी'॥ २७९॥,
'भगिन्ययं नः प्रथमाभिसन्धिः॥ २८०॥'