मोरु कलावेण वहइ तह णामह सरिणाउ।
उस्सीसा पाअंतिगओ अणुणत्तिहिं जणु णाउ॥ २६७॥
(मयूरः कलापेन वहति तस्य नाम्नः सदृशनामा।
उच्छीर्षात् पादान्तगतोऽनुनक्तं यथा नौका॥)
१२. अनिश्चयकृत् सन्दिग्धम्; तस्य प्रकरणादिभिर्विशेषावगमे गुणत्वं, यथा—(कुसं. १.२७)
'महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम्॥ २६८॥'
'स शार्ङ्गचक्रासिगदाब्जपाणिर्मेघच्छविः पातु जगन्ति शौरिः॥ २६९॥'
१३. विपरीतकल्पन विरुद्धम्; तस्य तद्विधाभिधाने गुणत्वं, यथा— (माघ. १६.२)
अभिधाय तदा तदप्रियं शिशुपालोऽनुशयं परं गतः।
भवतोऽभिमनास्समीहते सरुषः कर्तुमुपेत्य माननाम्॥ २७०॥