'पितुः पदं मध्यममुत्पतन्ती'॥ २६४॥
काञ्चीगुणस्थानमनिन्दितायाः'॥ २६५॥
१०. अप्रसिद्धार्थप्रयुक्तं गूढार्थम्; तस्य तद्व्याख्यानादौ गुणत्वं, यथा—
अम्हारिसा वि कइणो कइणो हलिबुढ्ढसालिपमुहा इ।
मंडुक्कमक्कडा वि हु होंति हरी—सप्प—सीहा वि॥ २६६॥
(अस्मादृशा अपि कवयः कवयो हरिवृद्धशालिप्रमुखा अपि।
मण्डूकमर्कटा अपि खलु भवन्ति हरिः सर्पसिंहा अपि॥)
११. सङ्केतकल्पिताभिधेयं नेयार्थम्; तस्य प्रहेलिकादिषु गुणत्वं, यथा—