'द्विरष्टवर्षाकृतिमेनमर्थिनामुशन्ति कल्पोपपदं महीरुहम्॥ २५९॥'
'यमिन्द्रशब्दार्थनिषूदनं हरेर्हिरण्यपूर्वं कशिपुं प्रचक्षते॥ २६०॥'
७. अवाचकमसमर्थम्; तस्य सीत्कृतादौ गुणत्वं, यथा—(माघ. १०.६४)
आशु लम्बितवतीष्टकराग्रे नीविमर्धमुकुलीकृतदृष्ट्या।
रक्तवैणिककराहततन्त्रीमण्डलक्वणितचारु चुकूजे॥ २६१॥
८. शास्त्रमात्रप्रसिद्धमप्रतीतम्; तस्य तद्विद्यसम्भाषणादौ गुणत्वं, यथा—(माघ. २.२८)
सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्धपञ्चकम्।
सौगतानामिवात्मान्यो नास्ति मन्त्रो महीभृताम्॥ २६२॥
९. व्यवहितार्थप्रत्ययकृत् क्लिष्टम्; तस्य झटित्यर्थप्रतीतौ गुणत्वं, यथा— (रघु.१३.१)
'अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः॥ २६३॥'