३. श्रुतिविरसं कष्टम्; तस्य दुर्वाचकानुप्रासे गुणत्वं, यथा—
त्वाष्ट्रास्त्वाष्ट्रारिराष्ट्रे न भ्राष्ट्रे नादंष्ट्रिणो जनाः।
धार्तराष्ट्राः सुराष्ट्रे न महाराष्ट्रे तु नोष्ट्रिणः॥ २५६॥
४. पादपूरणाद्यर्थमनर्थकम्; तस्य यमकादौ गुणत्वं, यथा—
'योषितामतितरां नखलूनं गात्रमुज्ज्वलतया न खलूनम्।'
'बभौ मुखेनाप्रतिमेन काचन श्रियाधिका तां प्रति मेनका च न॥ २५७॥'
५. रूढिच्युतमन्यार्थम्; तस्य प्रहेलिकादिषु गुणत्वं, यथा—
खातयः कनि काले ते स्फातयः स्फार्हवल्गवः।
चन्द्रे साक्षाद्भवन्त्यत्र तायवो मम धारिणः॥ २५८॥
६. तुच्छाभिधेयमपुष्टार्थम्; तस्य छन्दोऽनुरोधादौ गुणत्वं, यथा—