भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1051 to 1060 of 1676 verses
३. श्रुतिविरसं कष्टम्; तस्य दुर्वाचकानुप्रासे गुणत्वं, यथा—

त्वाष्ट्रास्त्वाष्ट्रारिराष्ट्रे न भ्राष्ट्रे नादंष्ट्रिणो जनाः।

धार्तराष्ट्राः सुराष्ट्रे न महाराष्ट्रे तु नोष्ट्रिणः॥ २५६॥

४. पादपूरणाद्यर्थमनर्थकम्; तस्य यमकादौ गुणत्वं, यथा—

'योषितामतितरां नखलूनं गात्रमुज्ज्वलतया न खलूनम्।'

'बभौ मुखेनाप्रतिमेन काचन श्रियाधिका तां प्रति मेनका च न॥ २५७॥'

५. रूढिच्युतमन्यार्थम्; तस्य प्रहेलिकादिषु गुणत्वं, यथा—

खातयः कनि काले ते स्फातयः स्फार्हवल्गवः।

चन्द्रे साक्षाद्भवन्त्यत्र तायवो मम धारिणः॥ २५८॥

६. तुच्छाभिधेयमपुष्टार्थम्; तस्य छन्दोऽनुरोधादौ गुणत्वं, यथा—

Showing 1051 to 1060 of 1676 verses