भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1091 to 1100 of 1676 verses
१४. अविशेषाभिधायकमप्रयोजकम्; तस्य स्वरूपाभिधानादौ गुणत्वं, यथा—(कुसं. ६.३६)

'त आकाशमसिश्याममुत्पत्य परमर्षयः॥ २७१॥'

'साग्रं वर्षसहस्त्रं स तपस्तेपे महामनाः॥ २७२॥'

१५. अव्युत्पत्तिमद्देश्यम्; (तस्य) कविभिरङ्गीकृतत्वे गुणत्वं, यथा—(मामा. ५.२२)

षण्डेषूद्दण्डपिण्डीतगरतरलनाः प्रापिरे येन वेला— मालम्ब्योत्तालतल्लस्फुटितपुटकिनीबन्धवो गन्धवाहाः।

पातालप्रतिमल्लगल्लविवरप्रक्षिप्‍तसप्‍तार्णवं वन्दे नन्दितनीलकण्ठपरिषद्‍व्यक्तर्द्धि वः क्रीडितम्॥ २७३॥

'किरन्तः कावेरीलडहलरीशीकरकणान्॥ २७४॥'

१६. अश्लीलामङ्गलघृणावदर्थं ग्राम्यम्; तस्य संवीतगुप्‍तलक्षितादौ न दोषः।

संवीतस्य हि लोके तु न दोषान्वेषणं क्षमम्।

शिवलिङ्गस्य संस्थाने कस्यासभ्यत्वभावना॥ २७५॥

Showing 1091 to 1100 of 1676 verses