१४. अविशेषाभिधायकमप्रयोजकम्; तस्य स्वरूपाभिधानादौ गुणत्वं, यथा—(कुसं. ६.३६)
'त आकाशमसिश्याममुत्पत्य परमर्षयः॥ २७१॥'
'साग्रं वर्षसहस्त्रं स तपस्तेपे महामनाः॥ २७२॥'
१५. अव्युत्पत्तिमद्देश्यम्; (तस्य) कविभिरङ्गीकृतत्वे गुणत्वं, यथा—(मामा. ५.२२)
षण्डेषूद्दण्डपिण्डीतगरतरलनाः प्रापिरे येन वेला— मालम्ब्योत्तालतल्लस्फुटितपुटकिनीबन्धवो गन्धवाहाः।
पातालप्रतिमल्लगल्लविवरप्रक्षिप्तसप्तार्णवं वन्दे नन्दितनीलकण्ठपरिषद्व्यक्तर्द्धि वः क्रीडितम्॥ २७३॥
'किरन्तः कावेरीलडहलरीशीकरकणान्॥ २७४॥'
१६. अश्लीलामङ्गलघृणावदर्थं ग्राम्यम्; तस्य संवीतगुप्तलक्षितादौ न दोषः।
संवीतस्य हि लोके तु न दोषान्वेषणं क्षमम्।
शिवलिङ्गस्य संस्थाने कस्यासभ्यत्वभावना॥ २७५॥