१९. तृतीयस्य गुणत्वं, यथा—
ब्रह्माण्डकारणं योऽप्सु निदधे वीर्यमात्मनः।
उपस्थानं करोम्येष तस्मै शेषाहिशायिने॥ २८१॥
अमङ्गलार्थममङ्गलार्थान्तरममङ्गलस्मृतिहेतुश्चामङ्गलार्थम्; तत्र—
२०. आद्यस्य गुणत्वं, यथा—
भद्रे! मारि प्रशस्तं वद सदसि मुदा नृत्य कृत्ये! मुहूर्तं मृत्यो! रत्नैश्चतुष्कं विरचय रचयारात्रिकं कालरात्रि!।
चामुण्डे! मुण्डमालामुपनय विनयस्वायतां भैरवीर्ष्या— मेवं देवे भवानीं वहति परिजनव्याहृतिस्त्रायतां व॥ २८२॥
२१. द्वितीयस्य गुणत्वं, यथा—(वेसं. १.६)
सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः।
निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे॥ २८३॥