कथमन्यथा ललाटे यावकरसतिलकपङ्क्तिरियम्॥ ३०६॥
अविरलविलोलजलदः कुटजार्जुननीपसुरभिवनवातः।
अयमायातः कालो हन्त मृताः पथिकगेहिन्यः॥ ३०७॥
कोऽस्य ज्ञापकाद् भेद इति चेदुच्यते—'जानन्तं प्रयुङ्क्त इति ज्ञापकः; अनु पश्चान्मीयते अनेनेत्यनुमानम्। नन्विदमपि ज्ञापयति, सत्यम्। किंत्विदमजिज्ञासुमपि ज्ञापयति, स तु जिज्ञासुमेव। यथा—(गसा.६.४२)
दीसइ ण चूअमउलं अत्ता ण अ वाइ मलअगंधवहो।
एत्तं वसंतमासं सहि जं उक्कठिअं चेअं॥ ३०८॥
(दृश्यते न चूतमुकुलमद्य न च वाति मलयगन्धवहः।
एति वसन्तमासः सखि ! यदुत्कण्ठितं चेतः॥)
अथवा प्रमितिरूपं फलमनुमानम्। यथा—