भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1201 to 1210 of 2002 verses
विदूषकः— तदो ताए किं संउत्तं ? (ततस्तस्याः किं संवृत्तम् ?)

वसुभूतिः— सा युष्मदन्तिकमस्माभिरानीयमाना प्रवहणभङ्गात् सागरे निमग्‍ना।

वासवदत्ता— (सास्रम्) हा बहिणिए, कहिं सि। देहि मे पडिवअणं। (हा भगिनिके, क्‍वासि? देहि मे प्रतिवचनम्।) इति।

यथा च वेणीसंहारे—(वेसं. ६.२१)

युधिष्ठिरः—युक्तमाह पाञ्चाली। कञ्चुकिन्, क्रियतामियं तपस्विनी चितासंविभागेन सह्यवेदना। ममापि धनुरुपनय। अलमथवा धनुषा॥ २६८॥

तस्यैव देहरुधिरोक्षणपाटलाङ्गीम् आदाय संयति गदामपविध्य चापम्।

भ्रातृप्रियेण कृतमद्य यदर्जुनेन श्रेयो ममापि हि तदेव जयेन किं मे ॥ २६९॥

४६. (४.९ प्रतिषेधः)

ईप्सितार्थप्रतीघातः प्रतिषेध इति स्मृतः॥ २७०॥

(नाशा. १९.८८)

Showing 1201 to 1210 of 2002 verses