भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1181 to 1190 of 2002 verses
वाक्यमाधर्षसंयुक्तं द्युतिस्तज्ज्ञैरुदाहृता॥ २६४॥

(नाशा. १९.८७)

यथा रत्‍नावल्यां चतुर्थेऽङ्के,

विदूषकः—(अपवार्य) आः दासीएउत्त, इंदआलिअ, किं देवेहिं, किं वा अच्छराइहिं? जइ इमिणा परितुठ्ठेण दे पओअणं ता साअरिअं से दंसेहि। (आः दास्याःपुत्र, ऐन्द्रजालिक, किं देवैः, किं वाऽप्सरोभिः? यदि अनेन परितुष्टेन ते प्रयोजनं सागरिकां तस्य दर्शय।)

यथा च वेणीसंहारे षष्ठेऽङ्के,

युधिष्ठिरः—भगवन् कामपाल, कृष्णाग्रज, सुभद्राभ्रातः॥ २६५॥

ज्ञातिप्रीतिर्मनसि न कृता क्षत्रियाणां न धर्मो रूढं सख्यं तदपि गणितं नानुजस्यार्जुनेन।

तुल्यः कामं भवतु भवतश्शिष्ययोस्स्‍नेहबन्धः कोऽयं पन्था यदसि विमुखो मन्दभाग्ये मयीत्थम्॥ २६६॥

(वेसं.) इति।

४५. (४.८ खेदः)

Showing 1181 to 1190 of 2002 verses