भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1121 to 1130 of 2002 verses
गुरूणां बन्धूनां क्षितिपतिसहस्त्रस्य पुरतः पुराऽभूदस्माकं नृपसदसि योऽयं परिभवः।

प्रिये ! प्रायस्तस्य द्वितयमपि पारं गमयिता क्षयः प्राणानां वा कुरुपतिपशोर्वाऽद्य समरे॥ २४९॥

(वेसं.६.४५)

४९. (४.४ शक्तिः)

विरोधप्रशमो यस्तु सा शक्तिः परिकीर्तिता॥ २५०॥

(नाशा. १९.८५)

यथा रत्‍नावल्यां चतुर्थेऽङ्के—

विदूषकः—प्रविश्‍याह—ही ही भो अज्जे क्खु पिअवअस्सप्पसादिआए देविए बंधणादो मोइअ सहत्थदिण्णेहिं मोदएहिं चिरस्स कालस्स मे उदरं पूरिदं। अण्णच्च एदं पट्टंसुअजुअलं कण्णाहरणं च दिण्णं। ता जाव पिअवयस्सं पेक्ख, इति। (ही ही भोः! अद्य खलु प्रियवयस्यप्रसादितया देव्या बन्धनात् मोचयित्वा स्वहस्तदत्तैः मोदकैः चिरस्य कालस्य मे उदरं पूरितम्। अन्यच्च, एतत् पट्टांशुकयुगलं कर्णाभरणं च दत्तम्। तद् यावत् प्रियवयस्यं प्रेक्षे, इति}

यथा न वेणीसंहारे

पाञ्चालको युधिष्ठिरमाह— अहं च देवेन चक्रपाणिना देवसकाशमनुप्रेषितः। आह च देवो देवकीनन्दनः— अपर्युषितप्रतिज्ञे मारुतौ प्रनष्टे कौरवेश्वर महान् आसीन्नो विषादः। सम्प्रति पुनर्भीमसेनेनासादिते सुयोधने निष्कण्टकीभूतं भुवनतलं परिकल्पयतु देवः, इति॥ २५१॥

Showing 1121 to 1130 of 2002 verses