जह संभावमईण वि णईण परंमुहो जाओ॥ २८६॥
(स मुग्धमृगो मृगतृष्णिकाभिस्तथा दूनस्त्वदाशाभिः।
यथा सद्भावमयीष्वपि नदीषु पराङ्मुखो जातः॥)
उपादानहेतुर्यथा—(विक्रमो. ४.३९)
समर्थये यत् प्रथमं प्रियां प्रति क्षणेन तन्मे परिवर्ततेऽन्यथा।
अतो विनिद्रे सहसा विलोचने करोमि न स्पर्शविभाविताप्रियः॥ २८७॥
उपेक्षाहेतुर्यथा—(माघ. ३.५१)
चिक्रंसया कृत्रिमपत्रिपङ्क्तेः कपोतपालीषु निकेतनानाम्।
मार्जारमप्यायतनिश्चलाङ्गं यस्यां जनः कृत्रिममेव मेने॥ २८८॥
भ्रान्तिमान्, भ्रान्तिमाला, उपमाभ्रान्तिः, भ्रान्त्यतिशयश्च भ्रान्तिरेव। तेषु — भ्रान्तिमान् यथा—