उपवनगमनक्रीडाविहारनारीरतिप्रमोदाः स्युः॥ २७७॥
तेषु हि वर्षेषु सदा न तत्र दुःखं न वा शोकः।
ये चैषामधिवासाः पुराणवादेषु पर्वताः कथिताः।
सम्भोगस्तेषु भवेत् कर्मारम्भस्तथा तस्मिन्॥ २७८॥
वाक्यार्थाभिनयोऽयं प्रकीर्तितो नाटकादिभेदेन।
द्वादशविधपदार्थाभिनयमथ यथास्थितं वक्ष्ये॥ २७९॥
तत्र श्रीरिव दानवशत्रोर्यस्मिन् कुलाङ्गना पत्युः।
वर्णयति शौर्यधैर्यप्रभृतिगुणानग्रतस्सख्याः॥ २८०॥
पत्या च विप्रलब्धा गातव्ये तं क्रमादुपालभते।