प्रत्यभिज्ञानं यथा—(उराच. ३.४०)
गृहीतो यः पूर्वं परिणयविधौ कङ्कणधरः सुधासूतेः पादैरमृतशिशिरैर्यः परिचितः।
स एवायं तस्यास्तदितारकरौपम्यसुभगो मया लब्धः पाणिर्ललितलवलीकन्दलनिभः॥ २८२॥
विपर्ययज्ञानं भ्रान्तिः। सा द्विधा— अतत्त्वे तत्त्वरूपा, तत्त्वे अतत्त्वरूपा च। अतत्त्वे तत्त्वरूपा त्रिधा— अबाधिता, बाधिता कारणबाधिता च। तासु—
मोहविरमे सरोसं थोरत्थणमंडले सुरवहूणं।
जेण करिकुंभसंभावणाइ दिठ्ठी परिट्ठविआ॥ २८३॥
(मोहविरमे सरोषं स्थूलस्तनमण्डले सुरवधूनाम्।
येन करिकुम्भसम्भावनया दृष्टिः परिस्थापिता॥)