उभयात्मको यथा—(किराता. १६.१८)
माया स्विदेषा मतिविभ्रमो वा ध्वस्तं नु मे वीर्यमुताहमन्यः।
गाण्डीवमुक्ता हि यथा पुरा मे पराक्रमन्ते न शराः किराते॥ २७६॥
सादृशादृष्टचिन्तादेरनुभूतपदार्थज्ञानोत्पत्तिः स्मरणम्। तत् — सदृशाद्यथा—(राच. १.१९)
अदृश्यन्त पुरस्तेन खेलत्खञ्जनपङ्क्तयः।
अस्मर्यन्त विनिःश्वस्य प्रियानयनविभ्रमाः॥ २७७॥
अदृष्टाद् यथा—(शाकु. ६.८)
मुनिसुताप्रणयस्मृतिरोधिना मम च मुक्तमिदं तमसा मनः।
मनसिजेन सखे ! प्रहरिष्यता धनुषि चूतशरश्च निवेशितः॥ २७८॥