सन्देहनिर्णयान्तरालवर्त्यूहो वितर्कः।
स द्विधा— निर्णयान्तोऽनिर्णयान्तश्च। तयोः —
निर्णयान्तस्त्रिधा तत्त्वानुपाती, अत्तत्त्वानुपाती, उभयात्मकश्च।
अनिर्णयान्तोऽपि त्रिधा मिथ्यारूपः, अमिथ्यारूपः उभयात्मकश्च। तेषु —
निर्णयान्तस्तत्त्वानुपाती यथा—(उराच. २.२९)
मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं शक्तिस्तस्य कुतस्स वज्रपतनाद् भीतो महेन्द्रादपि।
तार्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावणं आ ज्ञातं स जटायुरेव जरसा क्लिष्टो वधं वाञ्छति॥ २७१॥
अतत्त्वानुपाती यथा—(विक्र.१.८)
अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तप्रभः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः।