तत् केन कर्णरचितं लक्ष्येत कुवलयं तस्याः॥)
पिहितम्, अपिहितं, तद्गुणोऽतद्गुण इतीमान्यपि मीलितान्येव। तेषु — पिहितं यथा—
पअडिअसणेहसब्भावविब्भमं तीअ जह तुमं दिट्ठो।
संवरणवावडाए अण्णो वि जणो तह च्चेअ॥ २६७॥
(प्रकटितस्नेहसद्भावविभ्रमं तया यथा त्वं दृष्टः।
संवरणव्यापृतया अन्योऽपि जनस्तथा चैव॥)
अपिहितं यथा—(गास. ७२० वे.)
दिठ्ठा इ जंण दिठ्ठो आलविआए वि जंण आलविओ।
उवआरो जं ण कओ तं चिअ कलिअं छइल्लेहिं॥ २६८॥