(दृष्टयापि यन्न दृष्ट आलपितयापि यन्नालपितः।
उपचारो यन्न कृतस्तदेव च कलितं छेकैः॥)
गोरंगउ तरुणीअणु जोण्हइ अहिसरइ सिअणेवच्छपडिच्छिउ वल्लहवद्धरइ।
तच्छाअहिं पुणु चलिअउ सामलगत्तु तहिं मअणु मंतिअहिं॥ २६९॥
(गौराङ्गस्तरुणीजनो ज्योत्स्नायामभिसरति सितनेपंथ्यपरिच्छन्नो वल्लभबद्धरतिः।
तच्छायासु पुनश्चलितः श्यामलगात्रस्तत्र मदनो मन्त्र्यभूत्॥)
अतद्गुणो यथा—(सक. ३.१३१)
कर्कन्धूफलमुच्चिनोति शबरी मुक्ताफलाकाङ्क्षया क्रुद्धोलूककदम्बकस्य पुरतः काकोऽपि हंसायते।
कीर्त्या ते धवलीकृते त्रिभुवने क्ष्मापाल ! लक्ष्मीः पुरः कृष्णं वीक्ष्य बलोऽयमित्युपहितव्रीडं शनैर्जल्पति॥ २७०॥