(६. डिमः) डिमलक्षणं तु भूयो लक्षणयुक्त्या प्रवक्ष्यामि॥ २४९॥
शृङ्गारहास्यवर्जं शैषैः सर्वै रसैस्समायुक्तः।
दीप्तरसकाव्ययोनिश्चतुरङ्को वै डिमः कार्यः॥ २५०॥
प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकर्श्चेव।
रौद्रभयानकबीभत्सवीरकरुणाद्भुतोपेतः ॥ २५१॥
मायेन्द्रजालबहुलो बहुपुंसो(पुस्तो)त्थानसंयुक्तः।
देवभुजगेन्द्रराक्षसयक्षपिशाचावकीर्णश्च ॥ २५२॥
निर्घातोल्कापातैरुपरागैश्चन्द्रसूर्ययोर्युक्तः।
युद्धनियुद्धनिबद्धः संस्फो(सम्फे)टकुतश्च कर्तव्यः॥ २५३॥
सात्वत्यारभटीभ्यां वृत्तिभ्यामन्वितो डिमः कार्यः।