दृष्ट्वैकासनङ्गते प्रियतमे पश्चादुपेत्यादरा— देकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलः।
ईषद्वक्रितकन्धरः सपुलकं स्वेदोल्लसन्मानसा— मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति॥ २३०॥ (अमरु.)
२. अर्थस्य प्राकट्यं प्रसादः, यथा—
अयमुदयति मुद्राभञ्जनः पद्मिनीनामुदयगिरिवनालीबालमन्दारपुष्पम्।
विरहविधुरकोकद्वन्द्वबन्धुर्विभिन्दन्कुपितकपिकपोलक्रोडताम्रस्तमंसि॥
३. क्रमवतामवैषम्यं समता, यथा—(विक्र. २.७)
अग्रे स्त्रीनखपाटलं कुरवकं श्यामं द्वयोर्भागयो— र्बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति।
ईषद्ब्रद्धरजःकणाग्रकपिशा चूते नवा मञ्जरी मुग्धत्वस्य च यौवनस्य च सखे मध्ये मधुश्रीः स्थिता॥ २३२॥
४. क्रोधादावप्यतीव्रता माधुर्यम्, यथा—(रत्नाव. २.१९)
भ्रूभेदे सहसोद्गतेऽपि वदनं नीतं परां नम्रता— मीषन्मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम्।