भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 991 to 1000 of 1676 verses
८. व्रिभवोत्कर्ष उदारता, यथा—(शाकु. ७.१२)

प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकपिशे पुण्याभिषेकक्रिया।

ध्यानं रतनशिलातलेषु विबुधस्त्रीसन्निधौ संयमो यद् वाञ्छन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी॥ २३७॥

९. आशयोत्कर्ष उदात्तत्वम्, यथा—

पात्रे पुरोवर्तिनि विश्वनाथे क्षोदीयसि क्ष्मावलये च देये।

व्रीडास्मितं तस्य तदा तदासीच्चमत्कृतो येन स एव देवः॥ २३८॥

१०. अर्थाध्यवसायविशेष ओजः, यथा—(मवीच. २.३४)

तान्येव यदि भूतानि ता एव यदि शक्तयः।

ततः परशुरामस्य न प्रतीमः पराभवम्॥ २३९॥

११. रूढाहङ्कारतौर्जित्यम्, यथा—(कुसं. ६.८२)

Showing 991 to 1000 of 1676 verses