भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1021 to 1030 of 1676 verses
१८. अर्थसङ्कोचः सङ्क्षेपः, यथा—

श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्।

आत्मनः प्रतिकूलानि परेषां न समाचरेत्॥ २४७॥

१९. तुल्यशब्दार्थविभागः सम्मितत्वम्, यथा—

इन्दुर्मू्र्घ्नि शिवस्य शैलदुहितुर्वक्रो नखाङ्कः स्तने देयाद् वोऽभ्युदयं द्वयं तदुपमामालम्बमानं मिथः।

संवादः प्रणवेन यस्य दलता कायैकतायां तयो— रूर्ध्वद्वारविचिन्तितेन च हृदि ध्यातः स्वरूपेण च॥ २४८॥

२०. साभिप्रायोक्तिः भाविकत्वम्, यथा—

दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्‍गृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति।

एकाकिन्यपि यामि तद् वरमितः स्त्रोतस्स्तमालाकुलं नीरन्ध्राः पुनरालिखन्तु जठरच्छेदा नलग्रन्थयः॥ २४९॥

२१. अर्थादर्थान्तरावगमो गतिः, यथा—

Showing 1021 to 1030 of 1676 verses