श्रुत्वा यं सहसाऽऽगतं निजपुरात्त्रासेन निर्गच्छतां शत्रूणामवरोधनैर्जललवप्रस्यन्दतिम्यत्पुटाः।
शुभ्रे सद्मनि पल्लविन्युपवने वाप्यां नवाम्भोरुहि क्रीडाद्रौ च सशाद्वले विवलित ग्रीवैर्विमुक्ता दृशः॥ २१४॥
१०. समासभूयस्त्वमोजः, यथा—
जयति भुजगरज्जुग्रन्थिनिष्पीडितेन्दुस्त्रवदमृतनिवृत्तप्रेतभावैः कपालैः।
विरचितनुतिबन्धो मूर्घ्नि सद्यः पुरारेः परिणतबहुकल्पब्रह्मणां ब्रह्मघोषः॥
११. बन्धगाढत्वमौर्जित्यं, यथा—
अस्मिन्नीषद्वलितविततस्तोकविच्छिन्नभुग्न किञ्चिल्लीलोपचितविततः पुञ्चितश्चोच्छ्रितश्च।
धूमोद्गारस्तरुणमहिषस्कन्धनीलो दवाग्नेः स्वैरं सर्पन् सृजति गगने गत्वरान् पत्रभङ्गान्॥ २१६॥
१२. वार्ताभिधानवर्णनादौ मनःप्रियार्थपदोपाख्यानं प्रेयः, यथा—(भोजस्य)
सौजन्याम्बुनिधे ! बुधप्रिय ! गुणप्राकार ! धर्मद्रुम प्रारोह ! प्रतिपन्नवत्सल ! महात्यागिन् ! विवेकाश्रय !।