६. सम्पूर्णवाक्यत्वमर्थव्यक्तिः, यथा—(रघु. १.१)
वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥ २११॥
७. बन्धोज्ज्वलता कान्तिः, यथा—
निरानन्दः कौन्दे मधुनि विधुरो बालवकुले न साले सालम्बो लवमपि लवङ्गे न रमते।
प्रियङ्गौ नासङ्गं रचयति न चूते विचरति स्मरन् लक्ष्मीलीलाकमलमधुपानं मधुकरः॥ २१२॥
८. बन्धविकटत्वमुदारता, यथा—
आरोहत्यवनीरुहः प्रविशति श्वभ्रं नगैः स्पर्धते खं व्यालेढि विवेष्टते क्षितितले कुञ्जोदरे लीयते।
अन्तर्भ्राम्यति कोटरस्य विसरत्यालम्बते वीरुधः किं तग्द्यन्न करोति मारुतवशं यातः कृशानुर्वने॥ २१३॥
९. श्लाघ्यविशेषणयोग उदात्तत्वं, यथा—