क्रुद्धस्यानुनयो यस्तु१ भवेत् तत् पर्युपासनम्॥ २०५॥
विदूषकः—भो एसा खु कअलीघरपेरंतेण गदा। ता एहि तुरिअं अणुसरह्म। (भो एषा खलु कदलीगृहपर्यन्तेन गता! तदेहि, त्वरितमनुसरावः।)
राजा—(कञ्चुकिनमुद्दिश्य) विनयन्धर! किमाह भवान्? एकाकी बहुभिर्बालो लूनशरासनश्च हत इति। पश्य—(वेसं. २.३)
हते जरति गोङ्गेये पुरस्कृत्य शिखण्डिनम्।
या श्लाघा पाण्डुपुत्राणां सैवास्माकं भविष्यति॥ २०६॥