(खाद विषं, मूत्रं पिब नीयस्व मार्या पततु ते वज्रम।
दन्तखण्डितस्तनी क्षिप्त्वा सुतं शपति माता॥)
९. अप्रकृतरसं विरसम्, यथा—(रुद्रटस्य ११.१३)
तव वनवासोऽनुचितः पितृमरणशुचं जहीहि किं तपसा।
सफलय यौवनमेतन्नन्वनुरक्तेन सुतनु मया॥ १८७॥
१०. हीनोपमानं हीनोपमम्, यथा—(भामहा. २.५४)
क्वचिदग्रे प्रसरता क्वचिदापत्य निघ्नता।
शुनेव सारङ्गकुलं त्वया भिन्नं द्विषां बलम्॥ १८८॥
११. अधिकोपमानमधिकोपमम्, यथा—(भामहा. २.५५)
अयं पद्मासनासीनश्चक्रवाको विराजते।