कार्यारम्भे सहकारिकारणावाप्तिः समाहितम्। सा द्विधा—
आकस्मिकी, बुद्धिपूर्विका च। तयोः —
आकस्मिकी यथा—(काव्याद. २.२९९)
मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः।
उपकाराय दिष्ट्येदमुदीर्णं घनगर्जितम्॥ २०८॥
अनुशासतिमित्यनाकुलं नयवर्त्माकुलमर्जुनाग्रजम्।
स्वयमर्थ इवाभिवाञ्छितस्तमभीयाय पराशरात्मजः॥ २०९॥