कल्पान्ते शमितत्रिविक्रममहाकङ्कालबद्धस्फुर— च्छेष-स्यूत-नृसिंह-वक्र-नखर-प्रोतादिकोलामिषः।
विश्वैकार्णवताविशेषमुदितौ तौ मत्स्यकूर्मावुभौ कर्षन् धीवरतां गतः स्यतु जगन्मोहं महाभैरवः॥ २१०॥
मूले पञ्च ततश्चतुष्टयमिति स्त्रक्संनिवेशैः शिरः— पुष्पैरन्यतमावलोकनमितैरुच्छोणितैरर्चिते ।
हस्तस्पर्शवशेन मूर्ध्नि दशमं मूर्धानमारोपयन् शम्भोरद्भुतसाहसैकरसिकः कैर्न स्तुतो रावणः॥ २११॥
अभिप्रायानुकुलः प्रवृत्तिविशेषो भावः। स द्विधा— सोद्भेदो निरुद्भेदश्च। तयोः सोद्भेदो यथा—(गास. २.३०)
सालोए च्चिअ सूरे घरिणी घरसामिअस्स घेत्तूण।
णेच्छंतस्स वि पाए धुअइ हसंती हसंतस्स॥ २१२॥
(सालोक एव सूर्ये गृहिणी गृहस्वामिनो गृहीत्वा।