स एव उभयलक्ष्यो यथा—(किराता. ७.१४)
प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता।
न किंचिदूचे चरणेन केवलं लिलेख बाष्पाकुललोचना भुवम्॥ २०३॥
फल्गुनिरासेन अफल्गुनिर्धारणं सारः।
स द्विधा— धर्मरूपो धर्मिरूपश्च। तयोः —
दानं वित्तादृतं वाचः॥ २०४॥