५. अस्थानविरतिर्यत्र तत् यतिभ्रष्टम्, यथा—
ब्रह्मोन्द्रोपेन्द्रादिगीर्वाणवन्द्यो भक्तानां भूयाच्छ्रिये चन्द्रचूडः।
स्त्रीणां सङ्गीतं समाकर्णयन्केतूदस्ताम्भोदं सदोऽध्यास्त ईशः॥ १५८॥
६. विसंहितं विरूपसन्धि च विसन्धि, यथा—यथा—काव्याद. ४.३७
मेघानिलेन अमुना एतस्मिन्नद्रिकानने।
मञ्ञर्युद्गमगर्भासौ तर्वाल्युर्वी विधूयते॥ १५९॥
७. विघटितविभक्ति व्याकीर्णम्, यथा—(काव्याद. ३.११०)
दण्डे चुम्बति पद्मिन्या हंसः कर्कशकण्टके।
मुखं वल्गुरवं कुर्वन् तुण्डेनाङ्गानि घट्टयन्॥ १६०॥
८. वाक्यान्तरपदव्यामिश्रं सङ्कीर्णम्, यथा—