दधन्ति मध्येषु वलीविभङ्गिषु स्तनातिभारादुदराणि नम्रताम्॥ १५४॥
२. अभिन्नपदपदार्थं पुनरुक्तिमद्, यथा—(काव्याद. ४.१३)
उत्कामुन्मनयन्त्येते गम्भीराः स्तनयित्नवः।
अम्भोधरास्तटित्वन्तो गम्भीराः स्तनयित्नवः॥ १५५॥
३. क्रमभ्रष्टमपक्रमम्, यथा—
कान्तिप्रतापौ भवतः सूर्याचन्द्रमसोः समौ।
तुरङ्गमथ मातङ्गं प्रयच्छास्मै मदालसम्॥ १५६॥
४. छन्दोभङ्गवद्भिन्नवृत्तं, यथा—(बृ.उ. ५.५.१७)
यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः।
तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः॥ १५७॥