भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 691 to 700 of 746 verses
सम्बन्धिना यथा—'व्याकरणस्य सूत्रं करोति व्याकरणं सूत्रयति, कंसस्य वधमाचष्टे कंसं घातयति, आ रात्रेर्विवासमास्ते रात्रिं विवासयति, पुष्येण चन्द्रस्य योगं जानाति पुष्येण चन्द्रं योजयति, माहिष्मत्यां सूर्योद्गमं प्राप्‍नोति माहिष्मत्यां सूर्यमुद्गमयति, कालस्य गमनमुपविष्टः प्रतिपालयति कालं गमयतीति।

प्रादयः पुनः षोढा—वाचकाः, द्योतकाः, सहाभिधायकाः, विशेषकाः, कार्यार्थकाः निरर्थकाश्चेति। ते च क्रिययैव सम्बध्यमानाः क्रियाप्रधानत्वादाख्यातस्य तद्‌व्यपदेशभाजो भवन्ति। तत्रोपसर्गाणां वाचकत्वं यथा— 'प्रादयो गताद्यर्थे प्रथमया, प्राचार्यः, प्रान्तेवासीति। अत्यादयः क्रान्ताद्यर्थे द्वितीयाय, अतिखट्वः, अतिमाल इति। अवादयः क्रुष्टाद्यर्थे तृतीयया, अवकोकिलम्, अवमयूरमिति। पर्यादयो ग्लानाद्यर्थे चतुर्थ्या, पर्यध्ययनः, परिप्रवचन इति। निरादयः क्रान्ताद्यर्थे पञ्चम्या, निर्वाराणसिः, निष्कौशाम्बिरिति। एवं प्रपतितः पर्णः प्रपर्णः, प्राचीनं पलाशं प्रपलाशं, सङ्गता आपोऽस्मिन्निति समीपम्, सङ्गतमक्षेण समक्षमिति।

धातुलीनस्यैवार्थविशेषस्य प्रकाशकत्वं द्योतकत्वम्। द्योत्याश्च 'तदन्यः तत्सदृशस्तद्विरुद्धस्तदभावस्तदुत्कर्षस्तदपकर्ष' इति षडर्था भवन्तीति। तेषु

तदन्यो यथा— 'प्रतीक्षते, उपक्रमत' इति; तत्सदृशो यथा 'संवदति, अनुकरोती' ति;

तद्विरुद्धो यथा— 'प्रतिष्ठते, उन्मज्जतीति;

तदभावो यथा— 'वियुज्यन्ते, प्रस्मरन्ती' ति;

तदुत्कर्षो यथा— 'प्रगल्भते, अतिक्रामतीति;

तदपकर्षो यथा—विहसति, प्राश्नातीति।

अत्र च योऽसौ क्रियात्मभूतो धर्मः कालहरणादिस्तद्धात्वभिहितमेवा— सत्त्वभूतमनभिदधत् प्रादिरवद्योतयति। यथाऽक्षिनिकोचादयोऽनभिदधत एवार्थान् प्रदर्शयन्ति, एवं क्रियास्थान् प्रारम्भादीनब्रुवन्त एव प्रादयोऽवद्योतयन्ति। धातोरेकाकिनः क्रियाविशेषाभिधानासामर्थ्ये सहकारिभावः सहाभिधायकत्वम्। तत्रान्तरङ्गो, बाह्यः, अव्यभिचारी, व्यभिचारी, व्यवहितः, सविशेषश्च सहाभिधायको भवति। तेषु—

अन्तरङ्गो यथा— 'सङ्ग्रामयते, असङ्ग्रामयत।

Showing 691 to 700 of 746 verses