भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 701 to 710 of 746 verses
बाह्यो यथा— अनुरुध्यते, अन्वरुध्यत।

अव्यभिचारी यथा— अधीते, अध्येति।

व्यभिचारी यथा— आचामति, संधुक्षयति।

व्यवहितो यथा— पुच्छमुदस्यत्युत्पुच्छयते, व्यस्यति विपुच्छयते।

सविशेषो यथा— सेनया अभियाति अभिषेणयति, वीणयोपगायति उपवीणयति।

सहार्थाभिधाने तूपसर्गयोर्भेदप्रतिपत्तिः कथम्?

यद्यपि धातुरुपसर्गं न व्यभिचरति, व्यभिचरत्येवोपसर्गो धातुम्। अतः शक्यतेऽन्ववव्यतिरेकाभ्यां भेदः कल्पयितुम्। यावानयं समादिरुपसर्गोऽन्यत्र दृष्टः इहापि तावानेव भवितुर्भवतीति।

सजातीयेभ्यो विजातीयेभ्यश्चावच्छेदको विशेषकः। स षोढा— प्रकृतिविशेषकः, प्रकृत्यर्थविशेषकः, प्रत्ययविशेषकः, प्रत्ययार्थविशेषकः, उभयविशेषकः, उभयार्थविशेषकश्चेति। तेषु—

प्रकृतिविशेषको यथा— विजयते, पराजयते।

प्रकृत्यर्थविशेषको यथा— सङ्क्रीडति, सङ्क्रीडते।

Showing 701 to 710 of 746 verses