बाह्यो यथा— अनुरुध्यते, अन्वरुध्यत।
अव्यभिचारी यथा— अधीते, अध्येति।
व्यभिचारी यथा— आचामति, संधुक्षयति।
व्यवहितो यथा— पुच्छमुदस्यत्युत्पुच्छयते, व्यस्यति विपुच्छयते।
सविशेषो यथा— सेनया अभियाति अभिषेणयति, वीणयोपगायति उपवीणयति।
सहार्थाभिधाने तूपसर्गयोर्भेदप्रतिपत्तिः कथम्?
यद्यपि धातुरुपसर्गं न व्यभिचरति, व्यभिचरत्येवोपसर्गो धातुम्। अतः शक्यतेऽन्ववव्यतिरेकाभ्यां भेदः कल्पयितुम्। यावानयं समादिरुपसर्गोऽन्यत्र दृष्टः इहापि तावानेव भवितुर्भवतीति।
सजातीयेभ्यो विजातीयेभ्यश्चावच्छेदको विशेषकः। स षोढा— प्रकृतिविशेषकः, प्रकृत्यर्थविशेषकः, प्रत्ययविशेषकः, प्रत्ययार्थविशेषकः, उभयविशेषकः, उभयार्थविशेषकश्चेति। तेषु—
प्रकृतिविशेषको यथा— विजयते, पराजयते।
प्रकृत्यर्थविशेषको यथा— सङ्क्रीडति, सङ्क्रीडते।