अप्रधानं यथा— 'वसिष्ठस्यापत्यं वासिष्ठः, चाषाणां समूहश्चाषमि' ति।
कारकं द्विधा— प्रधानमप्रधानं च।
प्रधानं यथा— 'विषेण वध्यो विष्यः शत्रुः, पदमस्मिन् दृश्यं पद्यः कर्दम' इति।
अप्रधानं यथा— व्याकरणं वेत्ति अधीते वा वैयाकरणः, अक्षैर्दीव्यत्याक्षिक' इति।
स्वार्थो द्विधा—मुख्य उपचरितश्च।
मुख्यो यथा—'यव एव यावकः (यवकः), मणिरेव मणिक' इति।
उपचरितो यथा— 'कुशाग्रीया बुद्धिः, काकतालीयमिव काकतालीयो न्याय' इति।
आख्यातेऽपि त्रिधा कारकेण, सम्बन्धिना प्रादिभिश्च।
कारकेण यथा—'अभृशो भृशो भवति भृशायते, शब्दं करोति शब्दायते, हस्तिना अतिक्रामति अतिहस्तयति, कष्टाय कर्मणे क्रामति कष्टायते, पाशान् विमोचयति विपाशयति, प्रासाद इवाचरित प्रासादीयतीति।