इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम्।
विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम्॥ १५८॥
निर्देशो यथा— 'भर्तृदारिके दिष्ट्या वर्धामहे, यदत्रैव कोऽपि कस्यापि (वल्लभः) तिष्ठतीति मामङ्गुलीविलासेनाख्यातवत्यः।'(मामा. १२८/२९)
अप्यवस्तुनि कथाप्रवृत्तये प्रश्नतत्परमनङ्गशासनम्।
वीक्षितेन परिगृह्य पार्वती मूर्धकम्पमयमुत्तरं ददौ॥ १५९॥
इङ्गितं यथा—(काव्याद. २.२६१)
कदा नौ सङ्गमो भावीत्याकीर्णे वक्तुमक्षमम्।
अवेत्य कान्तमबला लीलापद्मं न्यमीलयत्॥ १६०॥