प्रकरणमर्थो लिङ्गमौचित्यं देशः काल इति प्रकरणादयः।
तत्र प्रकरणाद्यथा सैन्धवः सामान्येन लवणेऽश्वे पुरुषे च वर्तमानः भोजनादिप्रकरणवशादर्थविशेषप्रतिपत्तिनिमित्तं भवति।
देवो वर्षतीत्यर्थात् देवशब्दो मेघमभिधत्ते,
रामलक्ष्मणाविति लक्ष्मणलिङ्गाद् रामशब्दो दाशरथौ वर्तते।
पुण्डरीकमुखीत्यौचित्यात् पुण्डरीकशब्दः कमलमाह,
अमरावत्यां हरिरिति हरिशब्दो देशतः शतक्रतुं ब्रूते,
रात्रौ पतङ्गं पश्येति कालतः पतङ्गशब्दः शलभमभिधत्त इति।
भवतु विदितं शब्दा वक्तुर्विवक्षितसूचकाः स्मरवति यतः कान्ते कान्तां हठात् परिचुम्बति।