विरामो यतिः। स चतुर्धा— पदे, पादे, अर्धे, स्थाने च।
तस्यान्यथाकरणं यतिविच्छेदः।
सम्पदो जलतरङ्गविलोला यौवनं त्रिचतुराणि दिनानि।
शारदाभ्रदलचञ्चलमायुः, किं धनैः, परहितानि विदध्वम्॥ १५२॥
अत्र किं धनैरिति पदयतौ न्याय्योऽर्थः प्रतीयते, तस्यान्यथाकरणं किमित्यत्रैव विच्छेदः; तेन च किमिति धनैः परहितानि विदध्वमित्यन्याय्यः।
पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम्।
आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः॥ १५३॥