भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 631 to 640 of 1087 verses
स्वबलेन निहन्ति संयुगे नचिरात्पाण्डुसुतः सुयोधनम्॥ १४९॥

अत्र पाण्डुसुतं सुयोझन इति वक्तव्ये पाण्डुसुतः सुयोझनमिति भानुमतीविरहवैमनस्यप्रयुक्तस्य सुयोधनवाक्यस्यान्यथात्वमनुच्यमानं भाविनोऽर्थस्य तथात्वमवबोधयति।

३. वाक्यासमाप्‍तिर्यथा— (उराच. ३.२६)

त्वं जीवितं त्वमसि मे हृदयं द्वितीयं त्वं कौमुदी नयनयोरमृतं त्वमङ्गे।

इत्यादिभिः प्रियशतैरनुध्य मुग्धां तामेव शान्तमथवा किमतः परेणा॥

अत्र 'शान्तमथवा किमतःपरेणे'ति वासन्तीवाक्यासमाप्तिः 'सुहृद्विषये नामङ्गलं वक्तव्यमि'—ति प्रतिपादयति।

४. वाक्यानुच्‍चारणं यथा—

अक्षुद्राऽरिकृताऽभिमन्यु—निधन—प्रोद्भूत—तीव्र—क्रुधः कीर्णा बाष्पकणैः पतन्ति धनुषि व्रीडाजडा दृष्टयः।

पार्थस्याऽकृत—शात्रव—प्रतिकृतेरन्तश्शुचा मुह्यतो हा वत्सेति गिरः स्फुरन्ति न पुनर्निर्यान्ति कण्ठाद् बहिः॥ १५१॥

अत्र हा वत्सेति वाक्यानुच्‍चारणमकृतशत्रुप्रतिक्रियाणां महात्मनामनुचितं परिदेवनमिति ज्ञापयति।

Showing 631 to 640 of 1087 verses