भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 631 to 640 of 746 verses
नञ्‌स‌मासो यथा— अब्राह्मणः, अनेकः, अभार्यः, अपचसीति।

एकदेशिसमासो यथा— चन्द्र इव मुखमस्याश्चन्द्रमुखी, मृगीव चपला मृगचपला, शस्त्रीव श्यामा शस्त्रीश्यामा, अनन्येन सदृशी अनन्यसदृशी।

उपमेयसमासो यथा— 'व्याघ्र इव पुरुषः पुरुषव्याघ्रः, करीव कलभः करिकलभः, शार्दूल इव राजा राजशार्दूलः, चन्द्र इव मुखं मुखचन्द्र इति॥

(उपमानमुपमेयञ्च)

किं पुनरुपमानं किं वोपमेयं, किं यदेवोपमानं तदेवोपमेयम्, आहोस्विदन्यदुपमानमन्यदुपमेयम्?

किंचातः?

यदि यदेवोपमानं तदेवोपमेयम्, उपमार्थो न घटते, न हि भवति गौरिव गौः; अन्यदुपमानमन्यदुपमेयं, तथाप्युपमार्थो न घटते, न हि भवति गौरिवाश्व इति। एवं तर्हि यत्र किंचित्सामान्यं कश्चिच्च विशेषः तत्रोपमानोपमेये भवतः।

किं वक्तव्यमेतत्? न हि। कथमनुक्तं गम्यते?

मानं हि नामानिर्ज्ञातज्ञानार्थमुपादीयते। यथा प्रस्थादिमानमनिर्ज्ञातस्य धान्यादेर्मेयस्यात्यन्तावच्छेदायोपादीयते।

तत्समीपे यन्नात्यन्ताय मिमीते तदुपमानं, यथा गौरिव गवयः। गौरस्य निर्ज्ञातः गवयोऽनिर्ज्ञातः।

Showing 631 to 640 of 746 verses