८. शास्त्रमात्रप्रयुक्तमप्रतीतम्, यथा—
किं भाषितेन बहुना रूपस्कन्धस्य सन्ति मे न गुणाः।
गुणनान्तरीयकं च प्रेमेति न तेऽस्त्युपालम्भः॥ १३७॥
९. व्यवहितार्थप्रत्ययं क्लिष्टम्, यथा—(काव्याद. ३.१२०)
विजितात्मभवद्वेषिगुरुपादहतो जनः।
हिमापहामित्रधरैर्व्याप्तं व्योमाभिनन्दति॥ १३८॥
१०. अप्रसिद्धार्थप्रयुक्तं गुढार्थं, यथा—
सहस्रगोरिवानीकं भवतो दुस्सहं परैः।
गोशब्दस्याक्षिवाचित्वादिहेन्द्रो हि सहस्रगुः॥ १३९॥
११. सङे्कतकल्पिताभिधेयं नेयार्थम्, यथा—