सपदि पङ्क्तिविहङ्गमनामभृत्तनयसैन्यमुलूकजिता जितम्।
अयमिहार्थ उलूकजिदिन्द्रजिद् बलमनेन च दाशरथेर्जितम्॥ १४०॥
१२. अनिश्चयकृत् सन्दिग्धम्, यथा—
नीललोहितमूर्तिर्यो दहत्यन्ते जगत्त्रयम्।
स एष हि महादेव इत्युक्ते हि न निश्चितम्।
विभावसुर्विवस्वान्वा वृषाङ्को वा प्रतीयते॥ १४१॥
१३. विपरीतकल्पनं विरुद्धम्, यथा—
अकार्यसुहृदोऽस्माकमपूर्वास्तव कीर्तयः।
इति स्तुत्यर्थमेवैतदस्तुत्यर्थे विकल्प्यते॥ १४२॥
१४. अविशेषाधायकमप्रयोजकम्, यथा—