तमालश्यामलं क्षारमत्यच्छमतिफेनिलम्।
कालेन लङ्घयामास हनूमानेष सागरम्॥ १४३॥
१५. अव्युत्पत्तिमद्देश्यम्, यथा—
गल्लौ लावण्यतल्लौ ते लडहौ मडहौ भुजौ।
नेत्रे वोसट्टकंदोट्टमोट्टायितसखे सखि!॥ १४४॥
१६. अश्लीलामङ्गलघृणावदर्थं ग्राम्यम्।
तत्रासभ्यमसभ्यार्थान्तरमसभ्यस्मृतिहेतुश्चाश्लीलम् तत्रासभ्यं यथा—
छत्राकारशिराः सिरालसरलस्थूलप्रकाण्डो महान्
मध्येसूर्यसुताभ्रसिन्धु—विपुलाभोगो वटः पातु वः।
कायैक्ये विकटप्रसारितमहाजङ्घं महीसुप्तयो—